|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.10. अध्यायः 010
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
इन्द्रण गन्धर्वमुखात्स्वेन याजनाय बृहस्पतिवरणं चोदितेनापि मरुत्तेन तदनङ्गीकारे यज्ञविघाताय साटोपं यज्ञवाटं प्रत्यागमनम्॥ 1 ॥ संवर्तेन मरुत्तप्रार्थनया विद्याबलेनेन्द्रादीनां संस्तम्भनम्॥ 2 ॥ ततः संवर्तानुवर्तिनेन्द्रेण सभानिर्मापणादिना यज्ञनिर्वर्तनपूर्वकं देवेः सह हविर्ग्रहणम्॥ 3 ॥ व्यासेनैव युधिष्ठिरंप्रति मरुत्तयज्ञप्रवृत्तिप्रकारकथनपूर्वकं तच्छिष्टद्रव्याहरमएनाश्वमेधकरणविधानम्॥ 4 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
इन्द्र उवाच।
एवमेतद्ब्रह्मबलं गरीयो
न ब्राह्मणात्किञ्चिदन्यद्ररीयः।
आविक्षितस्य तु बलं न मृष्ये
वज्रमस्मै प्रहरिष्यामि घोरम्॥ 14-10-1(92633)
धृतराष्ट्र गच्छ प्रहितो मरुत्तं
संवर्तेन सङ्गतं तं वदस्व
बृहस्पतिं त्वमुपशिक्षस्व राज-
न्वज्रं वा ते प्रहरिष्यामि घोरम्॥ 14-10-2(92634)
व्यास उवाच। 14-10-3x(7778)
ततो गत्वा धृतराष्ट्रो नरेन्द्रं
प्रोवाचेदं वचनं वासवस्य॥ 14-10-3(92635)
गन्धर्वं मां धृतराष्ट्रं निबोध
त्वामागतं वक्तुकामं नरेन्द्र।
ऐन्द्रं वाक्यं शृणु मे राजसिंह
यत्प्राह लोकाधिपतिर्महात्मा॥ 14-10-4(92636)
बृहस्पतिं याजकं त्वं वृणीष्व
वज्रं वा ते प्रहरिष्यामि घोरम्।
वचश्चेदेतन्न करिष्यसे मे
प्राहैतदेतावदचिन्त्यकर्मा॥ 14-10-5(92637)
मरुत्त उवाच। 14-10-6x(7779)
त्वं चैवैतद्वेत्थ पुरन्दरश्च
विश्वेदेवा वसवश्चाश्विनौ च।
मित्रद्रोहे निष्कृतिर्नास्ति लोके
महत्पापं ब्रह्महत्यासमं तत्॥ 14-10-6(92638)
बृहस्पतिर्याजयतां महेन्द्रं
देवश्रेष्ठं वज्रभृतां वरिष्ठम्।
संवर्तो मां याजयिताऽद्य राज-
न्न ते वाक्यं तस्य वा रोचयामि॥ 14-10-7(92639)
गन्धर्व उवाच। 14-10-8x(7780)
घोरो नादः श्रूयतां वासवस्य
नभस्तले गर्जतो राजसिंह।
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः
क्षेमं राजंश्चिन्त्यतामेष कालः॥ 14-10-8(92640)
व्यास उवाच। 14-10-9x(7781)
इत्येवमुक्तो धृतराष्ट्रेण राज-
ञ्श्रुत्वा नादं नदतो वासवस्य।
तपोनित्यं धर्मविदां वरिष्ठं
संवर्तं तं ज्ञापयामास कार्यम्॥ 14-10-9(92641)
मरुत्त उवाच। 14-10-10x(7782)
पश्यात्मानं प्लवमानं त्वमारा-
दध्वा दूरं तेन न दृश्यतेऽद्य।
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः
प्रयच्छ तस्मादभयं विप्रमुख्य॥ 14-10-10(92642)
अयमायाति वे वज्री दिशो विद्योतयन्दस।
अमानुषेण घोरेणि सदस्यास्त्रासिता हि नः॥ 14-10-11(92643)
संवर्त उवाच। 14-10-12x(7783)
भयं शक्राद्व्येतु ते राजसिंह
प्रणोत्स्येऽहं भयमेतत्सुघोरम्।
संस्तम्भिन्या विद्यया क्षिप्रमेव
मा भैस्त्वमस्याभिभवात्प्रतीतः॥ 14-10-12(92644)
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप।
यर्वेषामेव देवानां क्षयितान्यायुधानि मे॥ 14-10-13(92645)
दिशो वज्रं व्रजतां वायुरेतु
वर्षं भूत्वा वर्षतां काननेषु।
आपः प्लवन्त्वन्तरिक्षे वृथा च
सौदामनी दृश्यते माऽपि भैस्त्वम्॥ 14-10-14(92646)
वह्निर्देवस्त्रातु वा सर्वतस्ते
कामान्सर्वान्वर्षतु वासवो वा।
वज्रं तथा स्थापयतां वधाय
महाघोरं पुवमानं जलौघैः॥ 14-10-15(92647)
मरुत्त उवाच। 14-10-16x(7784)
घोरः शब्दः श्रूयते वै महास्वनो
वज्रस्यैष सहितो मारुतेन।
आत्मा हि मे प्रव्यथते मुहुर्मुहु-
र्न मे स्वास्थ्यं जायते चाद्य विप्र॥ 14-10-16(92648)
संवर्त उवाच। 14-10-17x(7785)
वज्रादुग्राद्व्येतु भयं तवाद्य
वातो भूत्वा व्रजतु नरेन्द्र वज्रम्।
भयं त्वक्त्वा वरमन्यं वृणीष्व
कं ते कामं तपसा साधयामि॥ 14-10-17(92649)
मरुत्त उवाच। 14-10-18x(7786)
इन्द्रः साक्षात्सहसाऽभ्येतु विप्र
हविर्यज्ञे प्रतिगृह्णातु चैव।
स्वंस्वं हविश्चैव जुषन्तु देवा
हुतं सोमं प्रतिगृह्णन्तु चैव॥ 14-10-18(92650)
संवर्त उवाच। 14-10-19x(7787)
अयमिन्द्रो हरिभिरायाति राज-
न्देवैः सर्वैस्त्वरितैः स्तूयमानः।
मन्त्राहूतो यज्ञमिमं मयाऽद्य
पश्यश्वैनं मन्त्रविस्रस्तकायम्॥ 14-10-19(92651)
व्यास उवाच। 14-10-20x(7788)
ततो देवैः सहितो देवराजो
रथे युङ्क्त्वा तान्हरीन्वाजिमुख्यान्।
आयाद्यज्ञमथ राज्ञः पिपासु-
राविक्षितस्याप्रमेयस्य सोमम्॥ 14-10-20(92652)
तमायान्तं सहितं देवसङ्घैः
प्रत्युद्ययौ सपुरोधा मरुत्तः।
चक्रे पूजां देवराजाय चाग्र्यां
यथाशास्त्रं विधिवत्प्रीयमाणः॥ 14-10-21(92653)
संवर्त उवाच। 14-10-22x(7789)
सुस्वागतं ते पुरुहूतेह विद्व-
न्यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र।
शोशुभ्यते बलवृत्रघ्न भूयः
पिबस्व सोमं सुतमुद्यतं मया॥ 14-10-22(92654)
मरुत्त उवाच। 14-10-23x(7790)
शिवेन मां पश्य नमश्च तेऽस्तु
प्राप्तो यज्ञः सफलं जीवितं मे।
अयं यज्ञं कुरुते मे सुरेन्द्र
बृहस्पतेरवरो जन्मना च। 14-10-23(92655)
इन्द्र उवाच। 14-10-24x(7791)
जानामि ते गुरुमेनं तपोधनं
बृहस्पतेरनुजं तिग्मतेजसम्
यस्याह्वानादागतोऽहं नरेन्द्र
प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः॥ 14-10-24(92656)
संवर्त उवाच। 14-10-25x(7792)
यदि प्रीतस्त्वमसि वै देवराज
तस्मात्स्वयं शाधि यज्ञे विधानम्।
स्वयं सर्वान्कुरु भागान्सुरेन्द्र
जानात्वयं सर्वलोकश्च देव॥ 14-10-25(92657)
व्यास उवाच। 14-10-26x(7793)
एवमुक्तस्त्वाङ्गिरसेन शक्रः
समादिदेश स्वयमेव देवान्।
सभाः क्रियन्तामावसथाश्च मुख्याः
सहस्रशश्चित्रभूताः समृद्धाः॥ 14-10-26(92658)
क्लृप्ताः स्थूणाः कुरुतारोहणानि
गन्धर्वाणामप्सरसां च शीघ्रम्।
यत्र नृत्येरन्नप्सरसः समस्ताः
स्वर्गोपमः क्रियतां यज्ञवाटः॥ 14-10-27(92659)
इत्युक्तास्ते चक्रुराशु प्रतीता
दिवौकसः शक्रवाक्यान्नरेन्द्र।
ततो वाक्यं प्राह राजानमिन्द्रः
प्रीतो राजन्पूज्यमानो मरुत्तम्॥ 14-10-28(92660)
एष त्वयाऽहमिह राजन्समेत्य
ये चाप्यन्ते तव पूर्वे नरेन्द्र।
सर्वाश्चान्या देवताः प्रीयमाणा
हविस्तुभ्यं प्रतिगृह्णन्तु राजन्॥ 14-10-29(92661)
आग्नेयं वै लोहितमालभन्तां
वैश्वदेवं बहुरूपं हि राजन्।
निलं चोक्षाणं मेद्यमप्यालभन्तां
चलच्छिश्नं सम्प्रदिष्टं द्विजाग्र्याः॥ 14-10-30(92662)
ततो यज्ञो ववृधे तस्य राज-
न्यत्र देवाः स्वयमन्नानि जह्रुः।
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः
सदस्योऽभूद्धरिमान्देवराजः॥ 14-10-31(92663)
ततः संवर्तश्चैत्यगतो माहात्मा
यथा वह्निः प्रज्वलितो द्वितीयः।
हवींष्युच्चैराह्वयन्देवसङ्घा-
ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः॥ 14-10-32(92664)
ततः पीत्वा बलभित्सोममग्र्यं
ये चाप्यन्ते सोमपा देवसङ्घाः।
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन
यथाजोषं तर्पिताः प्रीतिमन्तः॥ 14-10-33(92665)
ततो राजा जातरूपस्य राशी-
न्पदेपदे कारयामास हृष्टः।
द्विजातिभ्यो विसृजन्भूरि वित्तं
रराज वित्तेश इवारिहन्ता॥ 14-10-34(92666)
ततो वित्तं विविधं सन्निधाय
यथोत्साहं कारयित्वा च कोशम्।
अनुज्ञातो गुरुणां संनिवृत्त्य
शशास गामखिलां सागरान्ताम्॥ 14-10-35(92667)
एवंगुणः सम्बभूवेह राजा
यस्य क्रतौ तत्सुवर्णं प्रभूतम्।
तत्त्वं समादाय नरेन्द्र वित्तं
यजस्व देवांस्तपनीयैर्विधानैः॥ 14-10-36(92668)
वैशम्पायन उवाच। 14-10-37x(7794)
ततो राजा पाण्डवो हृष्टरूपः
श्रुत्वा वाक्यं सत्यवत्याः सुतस्य।
मनश्चक्रे तेन वित्तेन यष्टुं
ततोऽमात्यैर्मन्त्रयामास भूयः॥ ॥ 14-10-37(92669)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि दशमोऽध्यायः॥ 10 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-10-6 मित्रद्रोहे निष्कृतिर्वै यथेह नास्तीति सदैववाद इति क.ट.थ.पाठः॥ 7-10-8 क्षमं राजन्निति क.ट.थ.पाठः॥ 7-10-10 विलोभ्यि च्छित्त्वा मत्प्रतिष्ठा द्विनेन्द्राः इति क.ट.थ.॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|